Skip to main content
  1. Samskrut Yatra Blog/

Chandogyopnishad 2 - छान्दोग्योपनिषत् द्वितीयोऽध्यायः

·1297 words·7 mins· loading · ·
Sanskrit Text Upanishad Chandogya Upanishad

On This Page

Table of Contents
Share with :

छान्दोग्योपनिषत् द्वितीयोऽध्यायः
#

Chandogyopnishad 2
#

समस्तस्य खलु साम्न उपासनꣳ साधु यत्खलु साधु
तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ २.१.१॥

तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव
तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपगादित्येव
तदाहुः ॥ २.१.२॥

अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव
तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव
तदाहुः ॥ २.१.३॥

स य एतदेवं विद्वानसाधु सामेत्युपास्तेऽभ्याशो ह यदेनꣳ
साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ २.१.४॥

॥ इति प्रथमः खण्डः ॥
लोकेषु पञ्चविधꣳ सामोपासीत पृथिवी हिंकारः ।
अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमित्यूर्ध्वेषु ॥ २.२.१॥

अथावृत्तेषु द्यौर्हिंकार आदित्यः
प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी निधनम् ॥ २.२.२॥

कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च य एतदेवं
विद्वाꣳल्लोकेषु पञ्चविधं सामोपास्ते ॥ २.२.३॥

॥ इति द्वितीयः खण्डः ॥
वृष्टौ पञ्चविधꣳ सामोपासीत पुरोवातो हिंकारो
मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते
स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनम् ॥ २.३.१॥

वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ
पञ्चविधꣳसामोपास्ते ॥ २.३.२॥

॥ इति तृतीयः खण्डः ॥
सर्वास्वप्सु पञ्चविधꣳसामोपासीत मेघो यत्सम्प्लवते
स हिंकारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते
स उद्गीथो याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम् ॥ २.४.१॥

न हाप्सु प्रैत्यप्सुमान्भवति य एतदेवं विद्वान्सर्वास्वप्सु
पञ्चविधꣳसामोपास्ते ॥ २.४.२॥

॥ इति चतुर्थः खण्डः ॥
ऋतुषु पञ्चविधꣳ सामोपासीत वसन्तो हिंकारः
ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो
हेमन्तो निधनम् ॥ २.५.१॥

कल्पन्ते हास्मा ऋतव ऋतुमान्भवति य एतदेवं
विद्वानृतुषु पञ्चविधꣳ सामोपास्ते ॥ २.५.२॥

॥ इति पञ्चमः खण्डः ॥
पशुषु पञ्चविधꣳ सामोपासीताजा हिंकारोऽवयः
प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनम् ॥ २.६.१॥

भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं
विद्वान्पशुषु पञ्चविधꣳ सामोपास्ते ॥ २.६.२॥

॥ इति षष्ठः खण्डः ॥
प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो
हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो
मनो निधनं परोवरीयाꣳसि वा एतानि ॥ २.७.१॥

परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति
य एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः
सामोपास्त इति तु पञ्चविधस्य ॥ २.७.२॥

॥ इति सप्तमः खण्डः ॥
अथ सप्तविधस्य वाचि सप्तविध्ꣳ सामोपासीत
यत्किंच वाचो हुमिति स हिंकारो यत्प्रेति स प्रस्तावो यदेति स आदिः ॥ २.८.१॥

यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो
यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ २.८.२॥

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति
य एतदेवं विद्वान्वाचि सप्तविधꣳ सामोपास्ते ॥ २.८.३॥

॥ इति अष्टमः खण्डः ॥
अथ खल्वमुमादित्यꣳसप्तविधꣳ सामोपासीत सर्वदा
समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ २.९.१॥

तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति
विद्यात्तस्य यत्पुरोदयात्स हिंकारस्तदस्य
पशवोऽन्वायत्तास्तस्मात्ते हिं कुर्वन्ति
हिंकारभाजिनो ह्येतस्य साम्नः ॥ २.९.२॥

अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या
अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशꣳसाकामाः
प्रस्तावभाजिनो ह्येतस्य साम्नः ॥ २.९.३॥

अथ यत्संगववेलायाꣳ स आदिस्तदस्य वयाꣳस्यन्वायत्तानि
तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं
परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः ॥ २.९.४॥

अथ यत्सम्प्रतिमध्यंदिने स उद्गीथस्तदस्य
देवा अन्वायत्तास्तस्मात्ते सत्तमाः
प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥ २.९.५॥

अथ यदूर्ध्वं मध्यंदिनात्प्रागपराह्णात्स
प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मात्ते
प्रतिहृतानावपद्यन्ते प्रतिहारभाजिनो ह्येतस्य साम्नः ॥ २.९.६॥

अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स
उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं
दृष्ट्वा कक्षꣳश्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो ह्येतस्य साम्नः ॥ २.९.७॥

अथ यत्प्रथमास्तमिते तन्निधनं तदस्य
पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो
ह्येतस्य साम्न एवं खल्वमुमादित्यꣳ सप्तविधꣳ सामोपास्ते ॥ २.९.८॥

॥ इति नवमः खण्डः ॥
अथ खल्वात्मसंमितमतिमृत्यु सप्तविधꣳ
सामोपासीत हिंकार इति त्र्यक्षरं प्रस्ताव
इति त्र्यक्षरं तत्समम् ॥ २.१०.१॥

आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ॥ २.१०.२॥

उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं
त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते त्र्यक्षरं तत्समम् ॥ २.१०.३॥

निधनमिति त्र्यक्षरं तत्सममेव भवति
तानि ह वा एतानि द्वाविꣳशतिरक्षराणि ॥ २.१०.४॥

एकविꣳशत्यादित्यमाप्नोत्येकविꣳशो वा
इतोऽसावादित्यो द्वाविꣳशेन परमादित्याज्जयति
तन्नाकं तद्विशोकम् ॥ २.१०.५॥

आप्नोती हादित्यस्य जयं परो हास्यादित्यजयाज्जयो
भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु
सप्तविधꣳ सामोपास्ते सामोपास्ते ॥ २.१०.६॥

॥ इति दशमः खण्डः ॥
मनो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः
प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ २.११.१॥

स एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या महामनाः स्यात्तद्व्रतम् ॥ २.११.२॥

॥ इति एकदशः खण्डः ॥
अभिमन्थति स हिंकारो धूमो जायते स प्रस्तावो
ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार
उपशाम्यति तन्निधनꣳ सꣳशाम्यति
तन्निधनमेतद्रथंतरमग्नौ प्रोतम् ॥ २.१२.१॥

स य एवमेतद्रथंतरमग्नौ प्रोतं वेद ब्रह्मवर्चस्यन्नादो
भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया
पशुभिर्भवति महान्कीर्त्या न प्रत्यङ्ङग्निमाचामेन्न निष्ठीवेत्तद्व्रतम् ॥ २.१२.२॥

॥ इति द्वादशः खण्डः ॥
उपमन्त्रयते स हिंकारो ज्ञपयते स प्रस्तावः
स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते
स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति
तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ २.१३.१॥

स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद
मिथुनी भवति मिथुनान्मिथुनात्प्रजायते
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या न कांचन परिहरेत्तद्व्रतम् ॥ २.१३.२॥

॥ इति त्रयोदशः खण्डः ॥
उद्यन्हिंकार उदितः प्रस्तावो मध्यंदिन उद्गीथोऽपराह्णः
प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् ॥ २.१४.१॥

स य एवमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो
भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया
पशुभिर्भवति महान्कीर्त्या तपन्तं न निन्देत्तद्व्रतम् ॥ २.१४.२॥

॥ इति चतुर्दशः खण्डः ॥
अभ्राणि सम्प्लवन्ते स हिंकारो मेघो जायते
स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति
स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम् ॥ २.१५.१॥

स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद
विरूपाꣳश्च सुरूपꣳश्च पशूनवरुन्धे
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या वर्षन्तं न निन्देत्तद्व्रतम् ॥ २.१५.२॥

॥ इति पञ्चदशः खण्डः ॥
वसन्तो हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः
शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम् ॥ २.१६.१॥

स य एवमेतद्वैराजमृतुषु प्रोतं वेद विराजति
प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति
ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्यर्तून्न निन्देत्तद्व्रतम् ॥ २.१६.२॥

॥ इति षोडशः खण्डः ॥
पृथिवी हिंकारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो
दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो लोकेषु प्रोताः ॥ २.१७.१॥

स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकी भवति
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या लोकान्न निन्देत्तद्व्रतम् ॥ २.१७.२॥

॥ इति सप्तदशः खण्डः ॥
अजा हिंकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः
पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ २.१८.१॥

स य एवमेता रेवत्यः पशुषु प्रोता वेद
पशुमान्भवति सर्वमायुरेति ज्योग्जीवति
महान्प्रजया पशुभिर्भवति महान्कीर्त्या पशून्न निन्देत्तद्व्रतम् ॥ २.१८.२॥

॥ इति अष्टादशः खण्डः ॥
लोम हिंकारस्त्वक्प्रस्तावो माꣳसमुद्गीथोस्थि
प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् ॥ २.१९.१॥

स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति
नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति
महान्प्रजया पशुभिर्भवति महान्कीर्त्या संवत्सरं
मज्ज्ञो नाश्नीयात्तद्व्रतं मज्ज्ञो नाश्नीयादिति वा ॥ २.१९.२॥

॥ इति एकोनविंशः खण्डः ॥
अग्निर्हिंकारो वायुः प्रस्ताव आदित्य उद्गीथो
नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं देवतासु प्रोतम् ॥ २.२०.१॥

स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव
देवतानाꣳसलोकताꣳसर्ष्टिताꣳसायुज्यं गच्छति
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या ब्राह्मणान्न निन्देत्तद्व्रतम् ॥ २.२०.२॥

॥ इति विंशः खण्डः ॥
त्रयी विद्या हिंकारस्त्रय इमे लोकाः स
प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि
वयाꣳसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः
पितरस्तन्निधनमेतत्साम सर्वस्मिन्प्रोतम् ॥ २.२१.१॥

स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद सर्वꣳ ह भवति ॥ २.२१.२॥

तदेष श्लोको यानि पञ्चधा त्रीणी त्रीणि
तेभ्यो न ज्यायः परमन्यदस्ति ॥ २.२१.३॥

यस्तद्वेद स वेद सर्वꣳ सर्वा दिशो बलिमस्मै हरन्ति
सर्वमस्मीत्युपासित तद्व्रतं तद्व्रतम् ॥ २.२१.४॥

॥ इति एकविंशः खण्डः ॥
विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः
प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः
श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं
वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ २.२२.१॥

अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां
पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः
स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि
मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २.२२.२॥

सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः
प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं
यदि स्वरेषूपालभेतेन्द्रꣳशरणं प्रपन्नोऽभूवं
स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ २.२२.३॥

अथ यद्येनमूष्मसूपालभेत प्रजापतिꣳशरणं
प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं
ब्रूयादथ यद्येनꣳ स्पर्शेषूपालभेत मृत्युꣳ शरणं
प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ २.२२.४॥

सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं
ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता
वक्तव्याः प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा
लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं
परिहराणीति ॥ २.२२.५॥

॥ इति द्वाविंशः खण्डः ॥
त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप
एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी
तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व
एते पुण्यलोका भवन्ति ब्रह्मसꣳस्थोऽमृतत्वमेति ॥ २.२३.१॥

प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या
सम्प्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि
सम्प्रास्र्वन्त भूर्भुवः स्वरिति ॥ २.२३.२॥

तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः
सम्प्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णानि
संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णोंकार एवेदꣳ
सर्वमोंकार एवेदꣳ सर्वम् ॥ २.२३.३॥

॥ इति त्रयोविंशः खण्डः ॥
ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवनꣳ रुद्राणां
माध्यंदिनꣳ सवनमादित्यानां च विश्वेषां च
देवानां तृतीयसवनम् ॥ २.२४.१॥

क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात्कथं
कुर्यादथ विद्वान्कुर्यात् ॥ २.२४.२॥

पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन
गार्हपत्यस्योदाङ्मुख उपविश्य स वासवꣳ सामाभिगायति ॥ २.२४.३॥

लो३कद्वारमपावा३र्णू ३३ पश्येम त्वा वयꣳ
रा ३३३३३ हु ३ म् आ ३३ ज्या ३ यो ३ आ ३२१११ इति ॥ २.२४.४॥

अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते
लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एतास्मि ॥ २.२४.५॥

अत्र यजमानः परस्तादायुषः स्वाहापजहि
परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनꣳ सम्प्रयच्छन्ति ॥ २.२४.६॥

पुरा माध्यंदिनस्य
सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुख
उपविश्य स रौद्रꣳसामाभिगायति ॥ २.२४.७॥

लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं
वैरा३३३३३ हु३म् आ३३ज्या ३यो३आ३२१११इति ॥ २.२४.८॥

अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते
लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एतास्मि ॥ २.२४.९॥

अत्र यजमानः परस्तादायुषः स्वाहापजहि
परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा
माध्यंदिनꣳसवनꣳसम्प्रयच्छन्ति ॥ २.२४.१०॥

पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख
उपविश्य स आदित्यꣳस वैश्वदेवꣳ सामाभिगायति ॥ २.२४.११॥

लो३कद्वारमपावा३र्णू३३पश्येम त्वा वयꣳ स्वारा
३३३३३ हु३म् आ३३ ज्या३ यो३आ ३२१११ इति ॥ २.२४.१२॥

आदित्यमथ वैश्वदेवं लो३कद्वारमपावा३र्णू३३ पश्येम
त्वा वयꣳसाम्रा३३३३३ हु३म् आ३३ ज्या३यो३आ ३२१११ इति ॥ २.२४.१३॥

अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो
दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय विन्दत ॥ २.२४.१४॥

एष वै यजमानस्य लोक एतास्म्यत्र यजमानः
परस्तादायुषः स्वाहापहत परिघमित्युक्त्वोत्तिष्ठति ॥ २.२४.१५॥

तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनꣳ
सम्प्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ॥ २.२४.१६॥

॥ इति चतुर्विंशः खण्डः ॥
॥ इति द्वितीयोऽध्यायः ॥

Dr. Hari Thapliyaal's avatar

Dr. Hari Thapliyaal

Dr. Hari Thapliyal is a seasoned professional and prolific blogger with a multifaceted background that spans the realms of Data Science, Project Management, and Advait-Vedanta Philosophy. Holding a Doctorate in AI/NLP from SSBM (Geneva, Switzerland), Hari has earned Master's degrees in Computers, Business Management, Data Science, and Economics, reflecting his dedication to continuous learning and a diverse skill set. With over three decades of experience in management and leadership, Hari has proven expertise in training, consulting, and coaching within the technology sector. His extensive 16+ years in all phases of software product development are complemented by a decade-long focus on course design, training, coaching, and consulting in Project Management. In the dynamic field of Data Science, Hari stands out with more than three years of hands-on experience in software development, training course development, training, and mentoring professionals. His areas of specialization include Data Science, AI, Computer Vision, NLP, complex machine learning algorithms, statistical modeling, pattern identification, and extraction of valuable insights. Hari's professional journey showcases his diverse experience in planning and executing multiple types of projects. He excels in driving stakeholders to identify and resolve business problems, consistently delivering excellent results. Beyond the professional sphere, Hari finds solace in long meditation, often seeking secluded places or immersing himself in the embrace of nature.

Comments:

Share with :

Related

Guhagita - गुहगीता
·3533 words·17 mins· loading
Sanskrit Text Hanumanji
अथ गुहगीता प्रारम्भः # अथ प्रथमोऽध्यायः # मनोविकारः विप्रा ऊचुः- सूतपुत्र महाप्राज्ञ कथकोऽसि दयाकर …
Hanuman Sahsranamavali - हनुमान सहस्त्रनामावली
·6402 words·31 mins· loading
Sanskrit Text Hanumanji
हनुमान सहस्त्रनामावली # हनुमान्: – विशाल और टेढी ठुड्डी वाले । श्रीप्रद: – शोभा प्रदन करने वाले । …
Vijnana Bhairava Tantra Sutras - विज्ञान भैरव तंत्र के सूत्र
·11234 words·53 mins· loading
Sanskrit Text Shiva
विज्ञान भैरव तंत्र के सूत्र # If you want to listen this in English podcast format, generated by AI …
Lalitasahasranamam with Meaning - ललितासहस्रनामं
·11238 words·53 mins· loading
Sanskrit Text Devi
Lalitasahasranama with Meaning # ॐ श्रीललितामहात्रिपुरसुन्दरीस्वरूपा श्रीमीनाक्षी परमेश्वरी …
Song of Sanyasi - सन्यासी का गीत (संस्कृतं)
·1021 words·5 mins· loading
Sanskrit Text Swami Vivekananda
सन्यासी का गीत # Song of Sanyasi # by Swami Vivekananda उत्तिष्ठ स्वरः तस्य संगीतं यस्य जन्मः दूरे …